सिकतिलतलाः सान्द्रच्छायास् तटान्तविलम्बिनः
शिशिरमरुतां लीलावासाः क्वणज्जलरङ्कवः ।
अविनयवतीनिर्विच्छेदस्मरव्ययदायिनः
कथय मुरले केनामी ते कृता निचुलद्रुमाः ॥५३१॥
विद्यायाः । (सु।र। ८०९)
पत्युः केलिभिर् अस्थिषु च्छिदुरता मर्मक्षतिर् नर्मणा
शृङ्गारेण गुरुव्यथा समुदयत्युच्चाटनं चाटुभिः ।
ध्यायन्त्याः सततोत्सुकेन मनसा नीरन्ध्रवानीरिणीर्
आकौमारम् उपास्यमानमुरलासीमाभुवः सुभ्रुवः ॥५३२॥
उमापतिधरस्य ।
यः कौमारहरः स एव हि वरस् ता एव चैत्रक्षपास्
ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ंहते ॥५३३॥
कस्यचित् । (सु।र। ८१५; शा।प। ३७६८; सू।मु। ८७।९; स्द् १।२, पद्या। ३८२, च्च् २।१।५८, २।१३।१२१, ३।१।७८।)
दावालीढकलेवरे विटपिनि प्राप्तोद्गमानङ्कुरान्
अग्रे पल्लवितैर् मनोभिर् अचिराच् चेतोभुवा नर्तिताः ।
सानन्दाश्रु विलोकयन्ति कलितस्वेदं स्पृशन्त्य् आदराद्
उत्कम्पाङ्गुलि दर्शयन्ति मदनक्रीडामहस्मारिणः ॥५३४॥
जलचन्द्रस्य ।
तस्याः सम्प्रति वासरक्रमनमत्तोये तमालातटे
साकूतं निपतन्ति वेतसलताकुञ्जोदरे दृष्टयः ।
सोत्कम्पस्खलितांशुकस्तनतटं सोल्लासकाञ्चीगुण
ग्रन्थिन्यस्तचलाङ्गुलीकिसलयं स्वेदार्द्रहस्ताम्बुजम् ॥५३५॥
चण्डालचन्द्रस्य ।