०११ कुलस्त्री

कुर्वीथाः श्वशुरस्य भक्तिम् अधिकां श्वश्र्वाश् च पादानतिं
स्नेहं भृत्यजने प्रतीच्छ रभसाद् द्वारागतान् बान्धवान् ।
भर्तारं सुखदुःखयोर् अविकृतप्रेमानुबन्धोदया
गेहे वा विपिनेऽपि वा सहचरीवृत्तेन नित्यं भज ॥५२६॥

कालिदासनन्दिनः ।

न नयति बहुमानस्यास्पदं स्निग्धबन्धून्
न च गुणिनि समृद्धेऽप्य् आदरं याति ताते ।
न भजति धृतिम् अन्तर्नन्दनेऽप्य् अन्तरात्मा
भवति हि पतिनिष्ठं प्रेम साध्वीजनस्य ॥५२७॥

उमापतिधरस्य ।

अभ्युत्थानम् उपागते गृहपतौ तद्भाषणे नम्रता
तत्पादार्पितदृष्टिर् आसनविधिस् तस्योपचर्या स्वयम् ।
सुप्ते तत्र शयीत तत् प्रथमतो जह्याच् च शय्याम् इति
प्राच्यैः पुतिर् निवेदिताः कुलवधूसिद्धान्तधर्मा अमी ॥५२८॥

राजशेखरस्य । (बा।रा। ४।४३)

शिरो यद् अवगुण्ठितं सहजरूढलज्जानतं
गतं च परिमन्थरं चरणकोटिलग्ने दृशौ ।
वचः परिमितं च यन् मधुरमन्दमन्दाक्षरं
निजं तद् इयम् अङ्गना वदति नूनम् उच्चैः कुलम् ॥५२९॥

क्षेमीश्वरस्य ।

शुश्रूषस्व गुरून् कुरु प्रियसखिवृत्तिं सपत्नीजने
भर्तुर् विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भोगेष्व् अनुत्सेकिनी
यान्त्य् एवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥५३०॥

कालिदासस्य । (Çअक्। ४।१८, सू।मु। ११८।१)