०१० गर्भिणी

आविर्भूतविपाण्डुरच्छवि मुखं क्षामा कपोलस्थली
सव्यापारपरिश्लथे च नयनेऽनुत्साहमुग्धं वपुः ।
श्यामीभूतमुखं पयोधरयुगं मध्यः स्वभावोच्छ्रितो
जातान्यैव मनोहराकृतिर् अहो गर्भोदये सुभ्रुवः ॥५२१॥

कालिदासनन्दिनः ।

हारिद्रम् अम्बरम् उपान्तनिबद्धचक्रम्
एकं कुलस्थितिवशाद् दधती प्रियासौ ।
तत्कालमङ्गलसमाचरणप्रयत्न
व्यासिद्धकेलिर् अपि मङ्गम् आतनोति ॥५२२॥

तस्यैव ।

मृदासक्ता हृद्यं स्थगयति मुखं चुम्बति मयि
स्तनौ पाण्डुश्यामौ मम करतलाद् आक्षिपति च ।
कृते गर्भालापे विशदहसितं रक्षति रुषा
प्रिया सर्वाकारं विशति हृदयं वल्लभतया ॥५२३॥

कर्णाटदेवस्य ।

अलसमधुरा स्निग्धा दृष्टिर् घनत्वम् उपागता
किसलयरुचिर् निस्ताम्बूलस्वभावधरोधरः ।
त्रिवलिवलया लेखोन्नेया घटन्त इवैकतः
प्रकृतिसुभगा गर्भेणासौ किम् अप्य् उपपादिता ॥५२४॥

तस्यैव ।

परिणतशरकाण्डा पाण्डुरा गण्डभित्तिः
कुचकलसमुखश्रीः कालिमानं दधाति ।
व्यपनतकृशभावं पीनताम् एति मध्यं
वपुर् अतिशयगौरं गर्भम् आविष्करोति ॥५२५॥

पशुपतिधरस्य ।