दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिता
शय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान् निर्गन्तुम् एवेहते
जाता वामतयैव मेऽद्य सुतरां प्रीत्यै नवोढा प्रिया ॥५१६॥
श्रीहर्षदेवस्य । (न्न् ३।४, स्व् २०७२, सु।र। ४६९, शा।प। ३६७२, सू।मु। ७७।२)
अपि भुजलतोत्क्षेपाद् अस्याः कृतं परिरम्भणं
प्रियसहचरीक्रीडालापे श्रुता अपि सूक्तयः ।
नवपरिणयव्रीडावत्या मुखोन्नतियत्नतोऽप्य्
अलसवलिता तिर्यग्दृष्टिः करोति महोत्सवम् ॥५१७॥
कालिदासनन्दिनः ।
हरति रुचिरं गाडाश्लेषे यदङ्गकम् अङ्गना
स्थगयति तथा यत्पाणिभ्यां मुखं परिचुम्बने ।
यद् अपि बहुशः पृष्टा किञ्चिद् ब्रवीत्य् अपरिस्फुटं
रमयतितरां तेनैवासौ मनोभिनवा वधूः ॥५१८॥
कस्यचित् । (स्व् २०६१)
प्रगल्भस्त्रीशिक्षानियमितभयव्रीडमुदित
स्मरोत्कम्पस्वेदं वहति घनम् आलिङ्गति मुहुः ।
मुहुः स्वादु स्वैरं वदति निभृतं पश्यति मुहुश्
चिराद् एवं धन्या नचिरपरिणीता रमयति ॥५१९॥
प्रियाकरस्य ।
दन्ताग्रग्रहणं करोति शनकैर् नैवाधरे खण्डनं
कण्ठे श्लिष्यति निर्भरग्रहविधिं कर्तुं पुनः शङ्कते ।
तिष्ठत्य् एव रतान्तरेष्व् अभिमुखं नैवाभियुङ्क्ते स्वयं
निष्प्रागल्भ्यतयैव वल्लभतरो यूनां नवोढाजनः ॥५२०॥
भ्रमरदेवस्य । (स्व् २१११)