००८ नवोढा

प्रथयति मयि व्याजेनाङ्गं ह्रिया च निगूहते
क्षिपति विशदस्निग्धं चक्षुः क्षणाच् च नियच्छति ।
मम च सहते दृष्टा दृष्टिं पुनश् च समीहते
वहति हृदये कामं बाला न चोज्झति वामताम् ॥५११॥

चन्द्रस्वामिनः ।

पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्य् अपहरति गात्राणि निभृतम् ।
न शक्नोत्य् आख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यत्य् अन्तः प्रथमपरिहासे नववधूः ॥५१२॥

अमरुकस्य । (अमरु ३८, स्व् २०५६, शा।प। ३६७३; स।क।आ।म् ११२८; विस्ह्नुदस् तो उ।नी। ५।१९)

निर्यन्त्रणं विहर मा चिरस्य प्रसीद
किं वेपसे पवनवेल्लितवल्लरीव ।
क्षीरोदचञ्चलदृगञ्चलपातमात्रैः
क्रीते जने क इव सम्भ्रमसन्निरोधः ॥५१३॥

गोवर्धनस्य ।

अवचनं वचनं प्रियसन्निधा
वनवलोकनम् एव विलोकनम् ।
अवयवावरणं च यद् अञ्चल
व्यतिकरेण तदङ्गसमर्पणम् ॥५१४॥

कालिदासस्य । (सु।र। ५०२, सू।मु। ८८।१८)

क्षिपति दयिते दृष्टिं वक्राम् अपाङ्गतरङ्गिणीं
हसितम् अनभिव्यक्तं मध्ये दधाति कपोलयोः ।
मृदु मदकलं किञ्चिद् वाक्यं कथञ्चन मुञ्चती
हरति हृदयं प्रौढेवेयं नवापि नितम्बिनी ॥५१५॥

उमापतिधरस्य ।