गण्डे मण्डनम् आत्मनैव कुरुते वैदग्ध्यगर्वाद् असौ
मुक्त्वा हेमविभूषणानि तनुते तालीदलेषु ग्रहम् ।
मन्दा कन्दुकखेलनाय भजते शारीषु शिक्षारसं
तन्व्याश् चित्रम् अकाण्ड एव लडहे भावे निबद्धो भरः ॥५०६॥
कस्यचित् । (सू।मु। ५१।१२)
दोलायां जघनस्थलेन चलता लोलेक्षणा लज्जते
सज्जं मौग्ध्यविसर्जनाय सुतनोः शृङ्गारमित्रं वपुः ।
स्पर्शः कण्टककोटिभिः कुटिलया लीलावने नेष्यते
धत्ते दिक्षु निरीक्षणं स्मितमुखी पारावतानां रुतैः ॥५०७॥
बिल्हणस्य । (व्च् ८।८६, शा।प। ३२७८, सू।मु। ५१।१४)
प्रियस्य रूढप्रणयस्य काचित्
किञ्चित् समुत्सार्य नितम्बबिम्बम् ।
भ्रुवस् त्रिभागेन तरङ्गितेन
सलीलम् अर्धासनम् आदिदेश ॥५०८॥
प्रवरसेनस्य ।
मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनैर्
अलसवलितैर् अङ्गन्यासैर् महोत्सवबन्धुभिः ।
असकृद् असकृत् स्फारस्फारैर् अपाङ्गविलोकितैस्
त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥५०९॥
रुद्रटस्य । (शृ।ति। १।४२द्)
अभ्यस्य स्मरदंशकौशलम् उपाध्यायीर् उपास्यावयोः
क्रीडाम्नायरहस्यवस्तुनि मिथोऽप्य् आसीज् जिगीषा सखि ।
उत्कम्पोत्पुलकाङ्गसम्भृतघनस्वेदाबिलस् तन्मया
सद्यो निष्प्रतिभः स मन्मथकथावैतण्डिकः खण्डितः ॥५१०॥
योगोकस्य ।