००६ मध्या

विरम नाथ विमुञ्च ममाञ्चलं
शमय दीपम् इयं समया सखी ।
इति नवोढवधूवचसा युवा
मुदम् अगाद् अधिकां सुरताद् अपि ॥५०१॥

रुद्रटस्य । (शृ।ति। १।३५ड़्, शा।प। ३६७५, सू।मु। ७७।४)

दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्यभाजो गिरः
पाणिः कुन्तलमालिकाविरचने त्यक्तान्यकार्यग्रहः ।
वक्षः संव्रियते पुनः पुनर् इदं भारालसं गम्यते
जाता सुभ्रु मनोरमा तव दशा कस्माद् अकस्माद् इयम् ॥५०२॥

कस्यचित् । (शृ।ति। १।३९ड़्)

यथा रोमाञ्चोऽयं स्तनभुवि लसत्स्वेदकणिको
यथा दृष्टिस् तिर्यक् पतति सहसा सङ्कुचति च ।
तथा शङ्केऽमुष्याः प्रणयिनि दरास्वादितरसं
न मध्यस्थं चेतः प्रगुणरमणीयं न च दृढम् ॥५०३॥

कस्यचित् ।

न वक्ति प्रेमार्द्रं न खलु परिरम्भं रचयति
स्थितौ तस्यां तस्यां करकमललीलां न सहते ।
स्मितज्योत्स्नाकान्तं मुखम् अभिमुखं नैव कुरुते
तथाप्य् अन्तः प्रीतिं वपुषि पुलकोऽस्याः कथयति ॥५०४॥

कालिदासस्य ।

यद् अन्योन्यप्रेमप्रवणयुवतीमन्मथकथा
समारम्भे स्तम्भीभवति पुलकैर् अञ्चिततनुः ।
तथा मन्ये धन्यं परमसुरतब्रह्मनिरतं
कुरङ्गाक्षी दीक्षागुरुम् अकृत कञ्चित् सुकृतिनम् ॥५०५॥

नरसिंहस्य । (सु।र। ३७४)