वारं वारम् अनेकधा सखि मया चूतद्रुमाणां वने
पीतकर्णदरीप्रणालवलितः पुंस्कोकिलानां ध्वनिः ।
तस्मिन्न् अद्य पुनः श्रुतिप्रणयिनि प्रत्यङ्गम् उत्कम्पितं
तापश् चेतसि नेत्रयोस् तरलता कस्माद् अकस्मान् मम ॥४९६॥
भोजदेवस्य । (सु।र। ३५०)
वविर् एव मलयमरुतो जगुर् एव पिकाः परारि च परुच् च ।
उत्कण्ठाभरतरलं सखि मानसम् ऐषमः किम् इदम् ॥४९७॥
कालिदासस्य ।
सा पत्न्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैर् अच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलम् एव रोदिति लुठल्लोलालकैर् अश्रुभिः ॥४९८॥
अमरोः [अमरु २६]
ध्रुवम् उदधितटीषु वल्लयस् ता
यद् उदिततन्तुचयैर् भवन्ति काञ्च्यः ।
इह हरिणदृशः फलैर् यदीयैर्
विदधति मौक्तिकनाम्भिश् च हारान् ॥४९९॥
राजशेखरस्य । (सू।मु। ८६।३)
यावद् यावत् कुवलयदृशा मृज्यते दन्तराजिस्
तावत् तावद् द्विगुणम् अधरच्छायया शोणशोचिः ।
भूयो भूयः प्रियसहचरीदर्शितादर्शभित्तौ
दृष्ट्वा दृष्ट्वा न विरमयते पाणिम् अद्यापि मुग्धा ॥५००॥
देवबोधस्य ।