००३ युवतिः

तरन्तीवाङ्गानि स्फुरदमललावण्यजलधौ
प्रथ्म्नः प्रागल्भ्यं स्तनजघनम् उन्मुद्रयति च ।
दृशोर् लीलारम्भाः स्फुटम् अपवदन्ते सरलताम्
अहो सारङ्गाक्ष्यास् तरुणिमनि गाढः परिचयः ॥४८६॥

राजशेखरस्य । (सु।र। ३७५)

अतन्त्री वाग्वीणा स्तनयुगलम् अग्रीवकलसा
वनब्जं दृङ् नीलोत्पलदलम् अपत्रोरुकदली ।
अकाण्डा दोर्वल्ली वदनम् अकलङ्कः शशधरस्
तदस्यास् तारुण्यं भुवनविपरीतं घटयति ॥४८७॥

वाग्वीणस्य ।

न जङ्घे गौराङ्ग्याः सरसकदलीस्तम्भयुगलं
न मध्योऽयं वेदी न कुचयुगलं काञ्चनघटौ ।
न काञ्ची किं चायं स्फुरति परितस् तोरणगुणः
स्मरस्यैतन् मन्ये सकलम् अभिषेकोपकरणम् ॥४८८॥

कस्यचित् ।

तद् एतत् सर्वस्वं भुवनजयिनः पुष्पधनुषो
मनुष्याणाम् एकं तद् इदम् असमं जीवितफलम् ।
इदं तत्सौख्यानां कुलभवन्म् आद्यं त्रिभुवने
यद् एतत् तारुण्योपहितमहिमानो मृगदृशः ॥४८९॥

कस्यचित् ।

मध्यं बद्धवलित्रयं विजयते निःसन्धिबन्धोन्नमद्
विस्तारिस्तनभारमन्थरम् उरो मुग्धा कपोलश्रियः ।
किं चामुग्धविनिद्रनीरजदृशस् तारुण्यपुण्यातिथेर्
अस्याः कुङ्कुमपङ्कलेपलडहच्छायं वपुर् वर्तते ॥४९०॥

कस्यचित् । (सु।र। ३६१, वज्रमुष्टेः)