यत् प्रत्यङ्गं स्फुटम् अनुसरन्त्य् ऊर्मयो विभ्रमाणां
क्षोभं धत्ते यद् अपि विपुलः स्निग्धलावण्यपङ्कः ।
उन्मग्नं यत् स्फुरति च मनाक् कुम्भयोर् युग्मम् एतत्
तन् मन्येऽस्या स्मरगजयुवा गाहते हृत्तडागम् ॥४८१॥
विधूकस्य । (सु।र। ३६५)
भ्रुवोः काचिल् लीला परिणतिर् अपूर्वा नयनयोः
स्तनाभोगो व्यक्तस् तरुणिमसमारम्भसमये ।
इदानीम् एतस्याः कुवलयदृशः प्रत्यहम् अयं
नितम्बस्याभोगो नयति मणिकाञ्चीम् अधिकताम् ॥४८२॥
राजोकस्य । (सु।र। ३३४, शा।प। ३२७४, सू।मु। ५१।७)
दरोत्तानं चक्षुः कलितविरलापाङ्गचलनं
भविष्यद्विस्तारस्तनमुकुलगर्भालसम् उरः ।
नितम्बे सङ्क्रान्ताः कतिपयकला गौरवजुषो
वपुर् मुञ्चद् बाल्यं किम् अपि कमनीयं मृगदृशः ॥४८३॥
कस्यचित् । (सु।र। ३५१, सू।मु। ५१।१०)
पद्भ्यां मुक्तास् तरलगतयः संश्रिता लोचनाभ्यां
श्रोणीबिम्बं त्यजति तनुतां सेवते मध्यभागः ।
धत्ते वक्षः कुचसचिवताम् अद्वितीयं च वक्त्रं
तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥४८४॥
राजशेखरस्य । (सु।र। ३५५, शा।प। ३२८२, सू।मु। ५२।४)
गते बाल्ये चेतः कुसुमधनुषा सायकहतं
भयाद् वीक्ष्यैवास्याः स्तनयुगम् अभून् निर्जिगमिषु ।
सकम्पा भ्रूवल्ली चलति नयनं कर्णकुहरं
कृशं मध्यं भुग्ना बलिर् अलसितः श्रोणिफलकः ॥४८५॥