०९५ उच्चावचम्

पुनः प्रादुर्भावाद् अनुमितम् इदं जन्मनि पुरा
पुरारे न प्रायः क्वचिद् अपि भवन्तं प्रणतवान् ।
नमन् जन्मन्य् अस्मिन्न् अहम् अतनुर् अग्रेऽप्य् अनतिभाङ्
महेश क्षन्तव्यं तद् इदम् अपराधद्वयम् अपि ॥४७१॥

मुञ्जस्य । (सु।र। ३६)

न ज्योत्स्ना न च मालती न दयिता नो वल्लकीपञ्चम
स्ताम्बूलं न विलेपनं न च रहःकेलिर् न मुक्तालता ।
नो वा सत्कविसूक्तयो मम तथा हर्तुं क्षमन्ते मनः
पुण्यैर् उन्मिलिता चराचरगुरोर् भक्तिर् यथा शूलिनः ॥४७२॥

तस्यैव ।

का दुर्दशा कुपितनिर्दयचित्रगुप्त
वित्रासितस्य जगतो यदि देवि न स्याः ।
त्वं कर्मबन्धनविमोचनधर्मराज
लेखाधिकारपरिशोधनजातपत्री ॥४७३॥

विरिञ्चेः ।

स्वाङ्गैः कल्पितसान्द्रतल्परचनः श्वासानिलोल्लासिभिः
कल्लोलैः कृतचामरः पृथुफणाक्ÿप्तातपत्रक्रियः ।
चूडारत्नधृतप्रदीपवलयो विश्वेशमादार्धयन्
नाकल्पस्थिरनिश्चयेन मनसा शेसः परं जीवति ॥४७४॥

ब्रह्मनागस्य ।

स श्लाघ्यस्तनम् उपस्तुन्वन्ति विबुधास् तेनान्वयः पावित
स्तस्मै नाम नमन्ति तेऽपि मुनयो मान्यास् ततो बिभ्यति ।
हस्ते तस्य जगत्त्रयी किम् अपरं तत्रामृतं लीयते
येन श्रीहरिपादपद्मरजसि न्यस्तं कदाचिन् मनः ॥४७५॥

श्रीधरदासविनिर्मितसदुक्तिकर्णामृते पवित्रयतु ।
गङ्गेव गाहमानान् प्रथमो देवप्रवाहोऽयम् ॥

इति श्रीमहामाण्डलिकश्रीधरदाससङ्गृहीते सदुक्तिकर्णामृते देवताप्रवाहो नाम प्रथमः प्रवाहः ।

अथ वीचयः ९५ श्लोकाः ४७५

(२)