०९२ प्राभातिकवातः

अयम् उषसि विनिद्रद्राविडीपीनतुङ्ग
स्तनपरिसरसान्द्रस्वेदविन्दूपमर्दी ।
स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो
वहति सखि भुजङ्गीभुक्तशेसः समीरः ॥४५६॥

कस्यचित् । (सु।र। ११४४)

प्रभाते सन्नद्धस्तनिततनिमानं जलधरं
स्पृशन्तः सर्वत्र स्फुटिततरमल्लीसुरभयः ।
अमी मन्दं मन्दं सुरतसमरश्रान्ततरुणी
ललाटस्वेदाम्भःकणपरिमुषो वान्ति मरुतः ॥४५७॥

अचलस्य । (सु।र। ११३९)

रजनिकरमयूखोन्निद्रनीलोत्पलाली
परिमलबहुगन्धो बधुरस् तत्परागैः ।
कवलितरतिखेदस्वेदबिन्दुर् निशान्ते
पुलकयति तुषारासारवर्षी समीरः ॥४५८॥

सरसिरुहस्य ।

रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतो
व्यालोलालकवल्लरीं प्रचलयन् धुन्वन् नितम्बाम्बरम् ।
प्रातर् वाति मधौ प्रकामविकसद्राजीवराजीरजो
जालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥४५९॥ अमरुकस्य ।

(अमरु ५८; शा।प। ३७३२, सू।मु। ८३।१)

स्तनपरिसरभागे दूरम् आवर्तमानाः
श्रिततनिमनि मध्ये किञ्चिद् एव स्खलन्तः ।
ववुर् अतनुनितम्बाभोगरुद्धा वधूनां
निधुवनरसखेदच्छेदिनः कल्यवाताः ॥४६०॥

रत्नाकरस्य । (स्व् २१६७, शा।प। ३७३०)