०९० नदीवातः

प्रतितटिनि तरङ्गान् मन्दम् आन्दोलयन्त
स्तरुणकरुणमल्लीफुल्लम् उल्लासयन्तः ।
इह हि नववसन्ते वान्ति सीमन्तिनीनां
सुरतसमरखेदच्छेदधीराः समीराः ॥४४६॥

कस्यचित् ।

धुनानः कावेरीपरिसरभुवश् चम्पकतरू
न्मरुन् मन्दं कुन्दप्रकरमकरन्दान् अवकिरन् ।
प्रियप्रेमावर्षच्युतरचनम् आमूलसरलं
ललाटे लाटीनां लुठितम् अलकं ताण्डवयति ॥४४७॥

अचलस्य । (सु।र। ११२९)

रेवानिर्झरवारिबिन्दुशिशिरः प्रेयानिवायं सखे
वातः फुल्ललवङ्गसङ्गमवशान् मन्दः कुरङ्गीदृशाम् ।
वक्त्रं चुम्बति वेपथुं जनयति प्रोद्घाटयत्य् अंशुकं
शीत्कारं तनुते तनीति पुलकं केशान्तम् आकर्षति ॥४४८॥

कस्यचित् ।

वहति मलयशैलोपान्तविश्रान्तवल्ली
नवकिसलयभङ्गक्षीरसौरभ्यबन्धुः ।
रहसि परिचितोऽयं पाण्ड्यसीमन्तिनीनां
दरतरलितरेवातीरनीरसमीरः ॥४४९॥

उमापतिधरस्य ।

उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः
कुहूकण्ठीकण्ठीरवरवलवत्रासितप्रोषितेभाः ।
अमी चैत्रे मैत्रावरुणि तरुणीकेलिकङ्केल्लिमल्ली
चलद्वल्लीहल्लीसकसुरभयश् चण्डि चञ्चन्ति वाताः ॥४५०॥

राक्षसस्य । (शा।प। ३८१०)