०८९ दक्षिणवातः

चुम्बन्न् आननम् आलुठन् स्तनतटीम् आन्दोलयन् कुन्तलं
व्यस्यन्न् अंशुकपल्लवं मनसिजक्रीडां समुल्लासयन् ।
अङ्गं विह्वलयन् मनो विकलयन् मानं समुन्मूलयन्
नारीणां मलयानिलः प्रिय इव प्रत्यङ्गम् आलिङ्गति ॥४४१॥

विनयदेवस्य । (सु।र। ११३३)

एते मे मलयाद्रिकन्दरजुषस् तच्छाखिशाखावली
लीलाताण्डवसम्प्रदानगुरवश् चेतोभुवो बान्धवाः ।
चूतोन्मत्तमधुव्रतप्रणयिनीहुङ्कारझङ्कारिणो
हा कष्टं प्रसरन्ति पान्थयुवतिजीवद्रुहो वायवः ॥४४२॥

श्रीपतेः ।

अन्ध्रीनीरन्ध्रपीनस्तनतटलुठनायासमन्दप्रचारा
श्चारून्नुल्लासयन्तो द्रविडवरवधूहारधम्मिल्लभारान् ।
जिघ्रन्तः सिंहलीनां मुखकमलवनं केरलीनां कपोलं
चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः ॥४४३॥

कस्यचित् । (सु।र। ११२६)

ये दोलाकेलिकाराः किम् अपि मृगदृशां मन्युतन्तुच्छिदो ये
सद्यः शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रयेऽपि ।
ते कण्ठे लोठयन्तः परभृतवयसां पञ्चमं रागराजं
वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः ॥४४४॥

राजशेखरस्य । (वि।शा।भ। १।२७, शा।प। ३८१६, सू।मु। ५९।२९, सु।र। ११४५)

स्वैरं स्वैरं द्रविडललनागण्डपीठं स्पृशन्तः
कर्णाटीनाम् अटनकुटिलाः कुन्तलावर्तनेषु ।
व्याधुन्वन्तो बकुललवलीनागपुन्नागवल्ली
र्लोपामुद्रादयितकुकुभो मारुताः सञ्चरन्ति ॥४४५॥

कस्यचित् ।