मज्जन्न् अम्भसि पुष्पधूलिषु लुठन्न् आकम्पयन् भूरुह
श्रेणीर् उन्मदकोकिलावलिर् अवैराबद्धकोलाहलः ।
अध्वन्यान् हृदि ताडयन् पुरवधूवासांसि विस्रंसयन्
स्वच्छन्दं भ्रमति स्मरावनिपतेर् उन्मत्तको मारुतः ॥४३६॥
कस्यचित् ।
अलीनां मालाभिर् विरचितजटाभारमहिमा
परागैः पुष्पाणाम् उपरचितभस्मव्यतिकरः ।
वनानाम् आभोगे कुसुमवति पुष्पोच्चयपरो
मरुन् मन्दं मन्दं विचरति परिव्राजक इव ॥४३७॥
वीर्यमित्रस्य । (सु।र। ११३४)
सुरतसमरस्वेदच्छेदप्रदो दलदम्बुज
व्रजपरिमलस्पर्शं वर्षन्न् असौ श्वसनः शनैः ।
प्रसरति पिकत्रोटित्रुट्यद्रसालनवाङ्कुर
द्रवनवपरिष्वङ्गैः शीतः कुरङ्गवधूदृशाम् ॥४३८॥
कस्यचित् ।
प्रमदविपिनवापीसम्भृताम्भोजराजि
प्रकटितमकरन्दग्राहिणोऽमी समीराः ।
अभिनवमदभाजां कामिनीनां कपोले
सुरतसमरखेदस्वेदम् उन्मूलयन्ति ॥४३९॥
गदाधरनाथस्य ।
एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि
क्लिश्यत्पीतस्तनपरिसरस्वेदसम्पद्विपक्षाः ।
वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द
त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः ॥४४०॥
कस्यचित् । (सु।र। ११४१)