यथैवैष श्रीमांश् चरमगिरिवप्रान्तजलधौ
सुधासूतिश् चेतः कनककमलाशङ्कि कुरुते ।
तथायं लावण्यप्रसरमकरन्दद्रवतृषा
पतद्भृङ्गश्रेणिश्रियम् अपि कलङ्कः कलयति ॥४२६॥
कस्यचित् । (सु।र। ९४०)
कृतपादनिगूहनोवसीद
न्नधिकश्यामकलङ्कपङ्कलेखः ।
गगनोदधिपश्चिमान्तलग्नो
विधुर् उत्तान इवास्ति कूर्मराजः ॥४२७॥
शतानन्दस्य । (सु।र। ९७८)
मुषितमुषितालोकास् तारास् तुषारकणत्विषः
सवितुर् अपि च प्राचीमूले मिलन्ति मरीचयः ।
श्रयति शिथिलच्छायाभोगस् तटीम् अपराम्बुधेर्
जरठलवलीलावण्याच्छच्छविर् मृगलाञ्छनः ॥४२८॥
शर्वस्य । (सु।र। ९७३)
लुठत्य् अपरवारिधौ कमलनिर्विशेषः शशी
प्ररूढम् उदयाचले चुलुकमात्रम् उष्णं महः ।
क्षणं गगनवेदिकाम् इदम् अनङ्कुशं गाहते
कलिन्दगिरिकन्यकातटमालनीलं तमः ॥४२९॥
सिह्लणस्य । (सू।मु। ८२।२०)
स्वस्थानाद् अवनीभुजेव पतितं दोषाकरेणेन्दुना
ताराभिर् विरलायितं प्रकृतिभिस् तस्येव निर्धामभिः ।
निःश्रीकैः कुमुदाकरैर् मुकुलितं तस्यावरोधैर् इव
प्रध्वस्तं तिमिरोत्करैः परिजनैस् तस्यैव दुश्चारिभिः ॥४३०॥
लक्ष्मीधरस्य ।