एकः सम्प्रति पाकशासनपुरीपीयूषसत्त्री पुरः
पारक्यं तमसाम् असौ कुमुदिनीचैतन्यचिन्तामणिः ।
मानोच्चाटनकार्मणं मृगदृशां देवो नभोऽम्भोनिधौ
पश्योदञ्चति पञ्चबाणवणिजो यात्रावहित्रं शशी ॥४२३॥
हरेः ।
अमृतम् अयम् अनङ्गक्ष्मारुहस्यालवालं
मृतदिवसकपालं कालकापालिकस्य ।
जयति मकरकेतोः शाणचक्रं शराणाम्
अमरपुरपुरन्ध्रीदर्पणः श्वेतभानुः ॥४२४॥
त्रिपुरारेः ।
क्रीडाकर्पूरदीपस् त्रिदशमृगदृशां कामसाम्राज्यलक्षी
प्रोत्क्षिप्तैकातपत्रं श्रमशमनचलच्चामरं कामिनीनाम् ।
कस्तूरीपङ्कमुद्राङ्कितमदनवधूमुग्धगण्डोपधानं
द्वीपं व्योमाम्बुराशेः स्फुरति सुरपुरीकेलिहंसः सुधांशुः ॥४२५॥