उत्पल्लव इव किरणैः कुसुमित इव तारकाभिर् अयम् इन्दुः ।
उदयत्य् उदयतटान्ते सुरतरुर् इव शीतलच्छायः ॥४१६॥
जनकस्य ।
यात्रायाम् इव दत्तपूर्णकलशः कन्दर्पराज्ञः शशी
तत्रायं सहकारपल्लवतुलाम् अङ्कः समारोहति ।
ज्योत्स्नालेपनपङ्कपूरितम् इव व्योमाङ्गणं सर्वतः
क्षिप्ता मङ्गललाजमुष्टय इव भ्राजिष्णवस् तारकाः ॥४१७॥
कस्यचित् ।
गगनतलतडागप्रान्तसीम्नि प्रदोष
प्रबलतरवराहोत्खन्यमानश् चकास्ति ।
परिकलितकलङ्कस्तोकपङ्कानुलेपो
निजकिरणमृणालीमूलकन्दोऽयम् इन्दुः ॥४१८॥
परमेश्वरस्य । (सु।र। ९३२)
चिताचक्रं चन्द्रः कुसुमधनुषो दग्धवपुषः
कलङ्कस् तस्यायं वहति मलिनाङ्गारतुलनाम् ।
अथैतस्य ज्योतिर् दरदलितकर्पूरधवलं
मरुद्भिर् भस्मेव प्रसरति विकीर्णं दिशि दिशि ॥४१९॥
राजशेखरस्य । (सु।र। ९०७)
अथोद्दामैर् इन्दोः सरसविसदण्डद्युतिधरै
र्मयूखैर् विक्रान्तं सपदि परितः पीततिमिरैः ।
दिनम्मन्या रात्रिश् चकितचकितं कौशिककुलं
प्रफुल्लं निद्राणैः कथम् अपि यथाम्भोरुहवनैः ॥४२०॥
योगेश्वरस्य । (सु।र। ९२३)