कह्लारस्पर्शगर्भैः शिशिरपरिचयात् कान्तिमद्भिः कराग्रै
श्चन्द्रेणालिङ्गितायास् तिमिरनिवसने स्रंसमाने रजन्याः ।
अन्योन्यालोकनीभिः परिचयजनितप्रेमनिस्यन्दिनीभि
र्दूरारूढे प्रमोदे हसितम् इव परिस्पष्टम् आशासखीभिः ॥४११॥
पाणिनेः । (सु।र। ९२०)
उपोढरागेण विलोलतारकं
तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तथा
पुरोऽपि मोहाद् गलितं न लक्षितम् ॥४१२॥
तस्यैव । (स्व् १९६९, शा।प। ३६३४)
यातस्यास्तम् अनन्तरं दिनकृतो वेशेन रागान्वितः
स्वैरं शीतकरः करं कमलिनीम् आलिङ्गितुं योजयन् ।
शीतस्पर्शम् अवाप्य सम्प्रति तथा गुप्ते मुखाम्भोरुहे
हासेनेव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः ॥४१३॥
वसुकल्पस्य । (सु।र। ९२२, म्न् २।४२)
प्राचीम् अञ्चति यामिनीम् अनूनयत्य् आशाः समालम्बते
द्याम् आलिङ्गति सेवते कुमुदिनीं स्निग्धोऽतिमुग्धैः करैः ।
बह्वीषु प्रतिपन्नमन्मथरसं कुर्वन् मनः कामिना
मिन्दुर् वन्द्यकरः स एष भुवनानन्दः परिस्पन्दते ॥४१४॥
कस्यचित् ।
कलाधारो वक्रः स्फुरदधररागो नवतनु
र्गलन्मानावेशास् तरुणरमणीर् नागर इव ।
घनश्रोणीबिम्बे नयनमुकुले चाधरदले
कपोले ग्रीवायां कुचकलशयोश् चुम्बति शशी ॥४१५॥
श्रीकण्ठस्य । (सु।र। ९०१)