०८२ क्षरदमृतश् चन्द्रः

शशिनम् असूत प्राची नृत्यति मदनो हसन्ति ककुभोऽपि ।
कुमुदरजःपटवासं विकिरति गगनाÌगने पवनः ॥४०६॥

धर्मकीर्तेः । (सु।र। ९१९)

तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका
कपाटघ्नीम् इन्दुः किरणलहरीम् उल्ललयति ।
समन्ताद् उन्मीलद्बहुजलबिन्दुव्यतिकरै
र्यथा पुञ्जायन्ते प्रतिगुणकमेणाङ्कमणयः ॥४०७॥

मुरारेः । (अर् २।७८, सु।र। ९१५)

स श्रीकण्ठकिरीटकुट्टिमपरिष्कारप्रदीपाङ्कुरो
देवः कैरवबन्धुर् अन्धतमसप्राग्भारकुक्षिम्भरिः ।
संस्कर्ता निजकान्तमौक्तिकमणिश्रेणीभिर् एणीदृशां
गीर्वाणाधिपतेः सुधारसवती पौरोगवः प्रोदगात् ॥४०८॥

तस्यैव । (अर्। ७।६१)

आमोदं कुमुदाकरेषु विपदं पद्मेषु कालानलं
पञ्चेषोर् विशिखेषु सान्द्रशिशिरक्षारं शशिग्रावसु ।
म्लानिं मानवतीमुखेषु विनयं चेतःसु वामभ्रुवां
वृद्धिं वार्धिषु निक्षिपन्न् उदयते देवस् तमीकामुकः ॥४०९॥

शङ्करदेवस्य ।

सौरातपविरहज्वललङ्घितगात्रीं कुमुद्वतीं निभृतः ।
संरक्तः परिपश्यन् विधुर् अयम् अयते प्रसादयितुम् ॥४१०॥

कस्यचित् ।