०८० सतमश् चन्द्रः

प्रथमम् अरुणच्छायस् तावत् ततः कनकप्रभस्
तद् अनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
प्रभवति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसबिसिनीकन्दच्छेदच्छविर् मृगलाञ्छनः ॥३९६॥

राजशेखरस्य । (क्प् १३९, स्व् २००४, सू।मु। ७२।४, सु।र। ९२६)

निःससार करघातविदीर्ण
ध्वान्तदन्तिरुधिरारुणमूर्तिः ।
केशरीव कटकाद् उदयाद्रेर्
अङ्कलीनहरिणो हरिणाङ्कः ॥३९७॥

भवभूतेः ।

प्रत्यग्रप्रसरे तमिस्रपटले बिम्बैकमात्रोदया
रम्भे शीतरुचावकीर्णकिरणे रम्योऽयम् एकः क्षणः ।
यस्मिन् नीलनिचोलकेन पिहितं कृत्वा तदेकान्ततः
सिन्दूरारुणचक्रमुद्रितम् इव त्रैलोक्यम् आलोक्यते ॥३९८॥

कस्यचित् ।

अथ जगद् अवगाढं वासरान्तापचारात्
तिमिरपटलवृद्धाव् अप्रतीकारसत्त्वम् ।
शशिभिषगनुपूर्वं शीतहस्तोऽभिषज्यन्न्
अधिकविशदवक्त्रः स्वैरभावं चकार ॥३९९॥

कस्यचित् ।

य एष प्रत्यूषे रविशवरम् आलोक्य पुरतो
नभःपारावारं न्यविशत भयाद् इन्दुशफरः ।
स सायं निःशङ्कं चटुलतरतारार्भकशतैश्
चरन् मन्दं मन्दं तिमिरजलनीलीम् उदयते ॥४००॥

वैद्यगदाधरस्य ।