०७४ चन्द्रबिम्बः

अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततः
समदयवनीगण्डच्छायं पुनर् मधुपिङ्गलम् ।
तद् अनु च नवस्वर्णाम्भोजप्रभं शशिनस् तत
स्तरुणि तगराकारं बिम्बं विभाति नभस्तले ॥३६६॥

कस्यचित् । (सु।र। ९४३)

उद्दर्पहूणतरुणीरमणोपमर्द
भुग्नोन्नतस्तननिवेशनिभं हिमांशोः ।
बिम्बं कठोरविसकाण्डकडारगौरै
र्विष्णोः पदं प्रथमम् अग्रकरैर् व्यनक्ति ॥३६७॥

अपराजितरक्षितस्य । (सु।र। ९२४)

स्फुटकोकनदारुणं पुरस्ताद्
अथ जाम्बूनदपत्रपिञ्जराभम् ।
क्रमलङ्घितमुग्धभावम् इन्दोः
स्फटिकच्छेदनिभं विभाति बिम्बम् ॥३६८॥

भगीरथस्य । (सु।र। ९४१)

करमूलबद्धपन्नगविषाग्निधूमहतमध्यम् ।
ऐशानम् इव कपालं स्फुटलक्ष्म स्फुरति शशिबिम्बम् ॥३६९॥

कस्यचित् । (सु।र। ९५०, झ् ७।१७)

मध्येयामिनि पार्वणामृतरुचेर् बिम्बं स्फुरच्चन्द्रिका
तत्प्रान्तं परितो विसारिकिरणश्रेणी शलाकावलि ।
ताराग्रन्थिविसंष्ठुलं स्थलम् इव ज्योत्स्नास्फुरद्वाससा
संवीतं सुखम् अध्यशेत जगती सुव्यक्तम् आलोक्यते ॥३७०॥

अंशुधरस्य ।