०७३ चन्द्रकला

श्यामायाः करजक्षतं रतिपतेर् जैत्रं धनुर् बन्धकी
हृत्कम्बुककचश् चकोरखुरली सौहृद्यबीजाङ्कुरः ।
चोरग्रामगजाङ्कुशः परिलसन्मन्दाकिनीरोहितो
ध्वान्ताम्भस्तरणैकनौर् उदयते बालः सुधादीधितिः ॥३६१॥

उमापतेः ।

लेखाम् अनङ्गपुरतोरणकान्तिभाजम्
इन्दोर् विलोकय तनूदरि नूतनस्य ।
देशान्तरप्रणयिनोर् अपि यत्र यूनोर्
नूनं मिथः सखि मिलन्ति विलोकितानि ॥३६२॥

वसुकल्पस्य । (सु।र। ९०३, राजशेखरस्य)

विगाढदोषं तिमिरं निरस्यता
क्रमेण बिद्ध्वाग्रकलाशलाकया ।
चिकित्सकेनेव विलोकनक्षमं
पुनर् नभश् चक्षुर् इवेन्दुना कृतम् ॥३६३॥

गणपतेः ।

प्रसरत्तिमिरसरित्तरिर् असतीहृद्दारुदारुणक्रकचः ।
स्मरगृहकवाटविघटनराजतकुञ्जीकला शशिनः ॥३६४॥

सेह्नोकस्य ।

चैतन्यं नभसश् चकोररमणीकर्पूरपाली सुधा
निर्यासद्रवदोहदस्य कुमुदस्तोमस्य सन्धुक्षणम् ।
ध्वान्तोत्तुङ्गमतङ्गवारणसृणिः शृङ्गारबीजाङ्कुरः
पश्योदञ्चति सस्पृहं प्रणयिनि प्रालेयभानोः कला ॥३६५॥

इन्द्रज्योतिषः ।