०७२ प्रशस्तचन्द्रः

शृङ्गारे सूत्रधारः कुसुमशरमुनेर् आश्रमब्रह्मचारी
नारीणाम् आदिदेवस् त्रिभुवनमहितो रागयज्ञे पुरोधाः ।
ज्योत्स्नासत्रं दधानः पुरमथनजटाजूटकोटीशयालुर्
देवः क्षीरोदजन्मा जयति कुमुदिनीकामुकः श्वेतभानुः ॥३५६॥

वसुकल्पस्य । (सु।र। ८९७)

कामायुष्टोमयज्वा पुरमथनजटाचक्रकौमारभक्तिः
प्राणायामोपदेष्टा सरसिरुहवने शर्वरीसार्वभौमः ।
देवो जागर्ति भानोर् भुवनभरभृतः स्कन्धविश्रामबन्धुः
शृङ्गाराद्वैतवादी शमितकुमुदिनी मौनमुद्रो मृगाङ्कः ॥३५७॥

मुरारेः । (अर्। ७।६२)

कन्दर्पस्य जगत्त्रयीविजयिनः साम्राज्यदीक्षागुरुः
कान्तामानशिलोञ्छवृत्तिर् अखिलध्वान्ताभिचारे कृती ।
देवस् त्र्यम्बकमौलिमण्डनसरित्तीरस्थलीतापसः
शृङ्गाराध्वरदीक्षितो विजयते राजा द्विजानामयम् ॥३५८॥

विश्वेश्वरस्य ।

व्योमाम्भोनिधिपुण्डरीकम् अमृतप्राधारधारागृहं
शृङ्गारद्रुमपुष्पम् ईश्वरशिखालङ्कारमुक्तामणिः ।
काकाकारतमोभिभूतकुमुदग्रामाय मृत्युञ्जयो
जीयान् मन्मथराष्ट्रपोष्ठिकमहाशान्तिद्विजश् चन्द्रमाः ॥३५९॥

उमापतिधरस्य ।

लीलासद्मप्रदीपस् त्रिपुरविजयिनः स्वर्णदीकेलिहंसः
कन्दर्पोल्लास सबीजं रतिरसकलहक्लेशविच्छेदचक्रम् ।
कह्लाराद्वैतबन्धुस् तिमिरजलनिधेर् उच्छिखो बाडवाग्निर्
लक्ष्म्याः क्रीडारविन्दं जयति भुजभुवां वंशकन्दः ॥३६०॥

श्रीमत्केशवसेनस्य ।