०७१ सरस्वती

वीणाक्वाणलयोल्लासि
लोलदङ्गुलिपल्लवः ।
भारत्याः पातु भूतानि
पाणिर् लसितकङ्कणः ॥३५१॥

कङ्कणस्य ।

आदित्याद् अपि नित्यदीप्तम् अमृतप्रस्यन्दि चन्द्राद् अपि
त्रैलोक्याभरणं मणेर् अपि तमःकाषं हुताशाद् अपि ।
विश्वालोकि विलोचनाद् अपि परब्रह्मस्वरूपाद् अपि
स्वान्तानन्दनम् अस्तु धाम जगतस् तोषाय सारस्वतम् ॥३५२॥

बलदेवस्य ।

निगूढं कुत्रापि क्वचिद् अपि बहिर् व्यक्तमधुरं
सरस्वत्याः स्रोतः परिमलगभीरं विजयते ।
अतिस्वादुन्य् अन्तःपिहितरसरम्ये यद् उपरि
प्लवन्ते भूयांसः कतिचिद् अपि मज्जन्ति निपुणाः ॥३५३॥

क्वचिद् इव रविर् जाड्यच्छेदि क्वचित् प्रचुराचिर
द्युतिर् इव चमत्कारि क्वापि क्षपाकरवन् मृदु ।
शिखिवद् अनृजु क्वापि क्वापि प्रदीपवद् उज्ज्वलं
विजयि किम् अपि ज्योतिः सारस्वतं तद् उपास्महे ॥३५४॥

अपिदेवस्य ।

यस्याः प्रसादपरमाणुरसायनेन
कल्पान्तरे सुकविकीर्तिशरीरम् अस्ति ।
या कामधेनुर् इव कामशतानि दुग्धा
देवी प्रयच्छति नमामि सरस्वतीं ताम् ॥३५५॥

पुरुषोत्तमदेवस्य ।