प्रवीरहठभोग्यापि
जयति श्रीर् महासती ।
कृत्स्नत्रैलोक्यवासापि
कृष्णोरःस्थलशायिनी ॥३४१॥
राजशेखरस्य ।
विद्वान् अक्षरनष्ट्धीर् इति शुर्चिर् धर्मध्वजीति स्थिर
स्तब्धः क्रुद्ध इति ग्रहीति सुदृढः क्षन्ता लघीयान् इति ।
मायावीति च नीतिशास्त्रकुशलो याम् अन्तरेणेश्वरैर्
गण्यन्ते गुणिनोऽपि दूषणपदं तस्यै नमस् ते श्रिये ॥३४२॥
सोलुकस्य ।
विष्णुवक्षोगृहे लक्ष्मीर्
अस्ति कौस्तुभदीपिके ।
पुनातु निवसन्ती वो
दृढदोःस्तम्भतोरणे ॥३४३॥
राजशेखरस्य ।
जयति श्रीमुखं कान्तं
कौस्तुभप्रतिबिम्बितम् ।
चन्द्रमा मनसो जात
इति यद् गायति श्रुतिः ॥३४४॥
आचार्यगोपीकस्य ।
वृत्ते साङ्गविवाहमङ्गलविधौ लब्धापि दैत्यद्रुहः
सौहार्दं विमनाः पुनातु भवतो लक्ष्मीः स्मरन्ती पितुः ।
याम् आश्वासयतीव सोदरतया प्रत्यग्रबिम्बग्रह
व्याजाद् अङ्गगताम् अनङ्कुशनिजस्नेहो मुहुः कौस्तुभः ॥३४५॥
शरणदेवस्य ।