०६६ समुद्रोत्थितलक्ष्मीः

सम्पूर्णः पुनर् अभ्युदेति किरणैर् इन्दुस् ततो दन्तिनः
कुम्भद्वन्द्वम् इदं पुनः सुरतरोर् अग्रोल्लसन्मञ्जरी ।
इत्थं यद्वदनस्तनद्वयवलद्रोमावलीषु भ्रमः
क्षीराब्धेर् मथने भवद्दिविषदां अलक्ष्मीर् असाव् अस्तु वः ॥३२६॥

कस्यचित् । (सु।र। १२६)

सानन्दं त्रिदशैः सविस्मयम् अविश्वस्तैः सुरद्वेषिभिः
साश्चर्यं सुरसुन्दरीपरिजनैः सेर्ष्यं च रम्भादिभिः ।
साकूतं च सकौतुकं च समनोह्लादं च कंसद्विषा
दृष्टा दुग्धमहोदधिप्रमथने लक्ष्मीः शिवायास्तु वः ॥३२७॥

शङ्करसेवस्य ।

जयति महोदधिमथने मुररिपुपरिरम्भसम्भृता लक्ष्मीः ।
सत्वरसत्रपसरभससपुलकसोत्कम्पसस्वेदा ॥३२८॥

कस्यचित् ।

मन्थानोल्लासलीलाचलचिकुरमिलत्कुण्डलां कर्णपालिं
मिथ्यैवोन्मोचयन्त्याः कृतकपटपरावृत्तयस् ते कटाक्षाः ।
लक्ष्म्याः पायासुरन्तः स्मरभरविकसत्स्मेरगण्डस्थलाया
लज्जालोलं वलन्तो मधुरिपुवदनाम्भोजभृङ्गाश् चिरं वः ॥३२९॥

भोजदेवस्य ।

श्रियः क्षीराम्भोधेर् निजविनयनम्रेण वपुषा
शनैर् उत्तिष्ठन्त्याः पवनचलितेन्दीवरदृशः ।
कटाक्षो मन्दाक्षस्तिमितलुलितभ्रूर् हरिम् अनु
प्रकीर्णः कालिन्दीलघुलहरिवृत्तिर् विजयते ॥३३०॥

कस्यचित् ।