०६५ समुद्रमथने हरिः

श्रेयोऽस्याश् चिरम् अस्तु मन्दरगिरेर् माघानि पाश्र्वैर् इय
मावष्टम्भि महोर्मिभिः फणिपतेर् मालेऽपि लालाविषैः ।
इत्य् आकूतजुषः श्रियं जलनिधेर् अर्धोत्थितां पश्यतो
वाचोन्तःस्फुरिता बहिर् विकृतिभिर् व्यक्ता हरेः पातु वः ॥३२१॥

वाक्पतिराजस्य । (सु।र। ११५)

पाण्डुलक्ष्मीकुचाभोगे नर्तिता हरिणा दृशः ।
औत्सुक्याद् इव तेनादौ निहिता वरणस्रजः ॥३२२॥

श्रीमत्केशवसेनदेवस्य ।

पातु त्रिलोकीं हरिर् अम्बुराशौ
प्रमथ्यमाने कमलां विलोक्य ।
अज्ञातहस्तच्युतभोगिनेत्रः
कुर्वन् वृथा बाहुगतागतानि ॥३२३॥

त्रिभुवनसरस्वत्याः ।

ग्राव्णा नासि गिरेः क्षता न पयसाप्य् आर्तासि न म्लापिता
निःश्वासैः फणिनोऽसि न त्वअनुगा नायासिता कापि न ।
स्वं वेश्म प्रतिगच्छतोर् इतो मुहुः श्रीशार्ङ्गिणोः सस्पृहं
सा पर्श्नोत्तरयुग्मपङ्क्तिर् उभयोर् अत्यायता पातु वः ॥३२४॥

कस्यचित् । (स।क।आ। १।९६)

पाथोधेः पर्मथ्यमानसलिलाद् अर्धोत्थितायाः श्रियः
सानन्दोल्लसितभुवः कुटिलया दृष्ट्यैव पीताननः ।
अज्ञातस्वकरद्वयीविगलितव्यालोलमन्थोरगः
शून्ये बाहुगतागतानि रचयन् नारायणः पातु वः ॥३२५॥

सागरस्य ।