रत्नच्छायाच्छुरितजलधौ मन्दिरे द्वारकाया
रुक्मिण्यापि प्रबलपुलकोद्भेदम् आलिङ्गितस्य ।
विश्वं पायान् मसृणयमुनातीरवानीरकुञ्जे
राधाकेलीपरिमलभरध्यानमूर्च्छा मुरारेः ॥३०१॥
उमापतिधरस्य । (पद्या। ३७१, उ।नी। १४।१८४; जीव अन्द् व्च्त् तो भ।र।सि। २।४।१७८)
कलिन्दीम् अनुकूलकोमलरयाम् इन्दीवरश्यामलाः
शैलोपान्तभुवः कदम्बकुसुमैर् आमोदिनः कन्दरात् ।
राधां च प्रथमाभिसारमधुरां जातानुतापः स्मरन्न्
अस्तु द्वारवतीपतिस् त्रिभुवनामोदाय दामोदरः ॥३०२॥
शरणस्य । (पद्या। ३६९)
कामं कामयते न केलिनलिनीं नामोदते कौमुदी
निस्यन्दैर् न समीहते मृगदृशाम् आलापलीलाम् अपि ।
सीदन्न् एष निशासु निःसहतनुर् भोगाभिलाषालसैर्
अङ्गैस् ताम्यति चेतसि व्रजवधूम् आधाय मुग्धो हरिः ॥३०३॥
तस्यैव । (पद्या। ३७०)
प्रत्यग्रोज्झितगोकुलस्य शयनाद् उत्स्वप्नमूढस्य मां
मा गोत्रस्खलिताद् उपैतु च दिवा राधेति भीरोर् अति ।
रात्राव् अस्वपतो दिवा च विजने लक्ष्मीति चाभ्यस्यतो
राधां संस्मरतः श्रियं रमयतः खेदो हरेः पातु वः ॥३०४॥
कस्यचित् । (स।क।आ।व् ४४८)
तल्पीकृतस्य भुजगाधिपतेः फणायां
रत्नेषु संवलितबिम्बतस्याचलायाः ।
कृष्णावतारकृतगोपवधूसहस्र
सङ्गस्मृतिर् जयति सोत्कलिकस्य विष्णोः ॥३०५॥
कस्यचित् ।