सत्रासर्ति यशोदया प्रियगुणप्रीतेक्षणं राधया
लग्नैर् वल्लवसूनुभिः सरभसं सम्भावितात्मोर्जितैः ।
भीतानन्दितविस्मितेन विषमं नन्देन चालोकितः
पायाद् वः करपद्मसुस्थितमहाशैलः सलीलो हरिः ॥२९६॥
सोल्लोकस्य । (सु।र। १४० सोन्नोकस्य; पद्या। २६४ सोह्नोकस्य)
एकेनैव चिराय कृष्ण भवता गोवर्धनोऽयं धृतः
श्रान्तोऽसि क्षणम् आस्स्व साम्प्रतम् अमी सर्वे वयं दध्महे ।
इत्य् उल्लासितदोष्णि गोपनिवहे किञ्चिद् भुजाकुञ्चन
न्यञ्चच्छैलभरार्दिते विरुवति स्मेरो हरिः पातु वः ॥२९७॥
शरणस्य । (पद्या। २६५)
स्नेहाद् अंसतटेऽवलम्ब्य चरणाव् आरोप्य तत्पादयोर्
दूराद् अस्तमहीधरस्य तनुताम् आशङ्क्य दोष्णो हरेः ।
शैलोद्धारसहायतां जिगमिषोर् अप्राप्तगोवर्धना
राधायाः सुचिरं जयन्ति गगने बन्ध्याः करभ्रान्तयः ॥२९८॥
शतानन्दस्य ॥
दूरं दृष्टिपथात् तिरोभव हरेर् गोवर्धनं विभ्रतस्
त्वय्य् आसक्तदृशः कृशोदरि करस्रस्तोऽस्य मा भूद् अयम् ।
गोपीनाम् इति जल्पितं कलयतो राधानिरोधाश्रयं
श्वासाः शैलभरश्रमभ्रमकराः कंसद्विषः पान्तु वः ॥२९९॥
शुभाङ्कस्य । (पद्या। २६७)
मुग्धे नाथ किम् आत्थ तन्वि शिखरिप्राग्भारभुग्नो भुजः
साहाय्यं प्रिय किं भजामि सुभगे दोर्वल्लिम् आयासय ।
इत्य् उल्लासितबाहुमूलविचलच्चेलाञ्चलव्यक्तयो
राधायाः कुचयोर् जयन्ति चलिताः कंसद्विषो दृष्टयः ॥३००॥
शङ्करस्य ।