०५७ वेणुनादः

कृष्णः पातु स यस्य संसदि गवां वेणुप्रणादोर् मयो
गोपीनाम् अनुवासरं नवनवा घूर्णन्ति कर्णोदरे ।
तद्वक्त्रासववासिता इव तदाकूतिप्रपञ्चा इव
भ्राम्यत्तत्करपल्लवाङ्गुलिगलल्लावण्यलिप्ता इव ॥२८१॥

लक्ष्मीधरस्य ।

तिर्यक्कन्धरम् अंसदेशमिलितश्रोत्रावतंसं स्फुरद्
बर्होत्तम्भितकेशपाशम् अनृजुभ्रूवल्लरीविभ्रमम् ।
गुञ्जद्वेणुनिवेशिताधरपुटं साकूतराधानन
न्यस्तामीलितदृष्टि गोपवपुषो विष्णोर् मुखं पातु वः ॥२८२॥

लक्ष्मणसेनदेवस्य । (पद्या। २६०)

सायं व्यावर्तमानखिलसुरभिकुलाह्वानसङ्केतनामान्य्
अभीरीवृन्दचेतो हठहरणकलासिद्धमन्त्राक्षराणि ।
सौभाग्यं वः समन्ताद् दधतु मधुभिदः केलिगोपालमूर्तेः
सानन्दकृष्टवृन्दावनरसिकमृगश्रेणयो वेणुनादाः ॥२८३॥

उमापतिधरस्य । (पद्या। ५)

मन्द्रक्वाणितवेणुर् अह्नि शिथिले व्यावर्तयन् गोकुलं
बर्हापीडकम् उत्तमाङ्गरचितं गोधूलिधुम्रं दधत् ।
म्लायन्त्या वनमालया परिगतः श्रान्तोऽपि रम्याकृतिर्
गोपस्त्रीनयनोत्सवो वितरतु श्रेयांसि वः केशवः ॥२८४॥

कस्यचित् । (क्व्स् २२, स्क्म् १।५७।४, सु।र। ११०, पद्या। २५६)

अंसासक्तकपोलवंशवदनव्यासक्तबिम्बाधर
द्वन्द्वोदीरितमन्दमन्दपवनप्रारब्धमुग्धध्वनिः ।
ईषद्वक्रिमलोलहारनिकरः प्रत्येकरोकानन
न्यञ्चच्चञ्चदुदञ्चदङ्गुलिचयस् त्वां पातु राधाधवः ॥२८५॥

केशरकीलीयनाथोकस्य । (पद्या। २६१, नाथोकस्य)