०५६ प्रश्नोत्तरम्

राधे त्वं कुपिता त्वम् एव कुपिता रुष्टासि भूमेर् यतो
माता त्वं जगतां त्वम् एव जगतां माता न विज्ञोऽपरः ।
देवि त्वं परिहासकेलिकलहेऽनन्ता त्वम् एवेत्य् असौ
स्मेरो वल्लवसुन्दरीम् अवनमच् छौरिः श्रियः वः क्रियात् ॥२७६॥

वाक्पतेः । (सु।र। १०८; पद्या। २८४)

कोऽयं द्वारि हरिः प्रयाह्य् उपवनं शाखामृगेणात्र किं
कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णः कथं वानरः ।
मुग्धेऽहं मधुसूदनो व्रज लतां ताम् एव पुष्पान्विताम्
इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ॥२७७॥

शुभङ्करस्य । (सु।र। १०९, स्व्। १०४, शा।प। १२२)

कस् त्वं भो निशि केशवः शिरसिजै :य् किं नाम गर्वायसे
भद्रे शौरिर् अहं गुणैः पितृगतैः पुत्रस्य किं स्याद् इह ।
चक्री चन्द्रमुखि प्रयच्छसि न मे कुण्डीं घटीं दोहनीम्
इत्थं गोपवधूजितोत्तरतया ह्रीणो हरिः पातु वः ॥२७८॥

कस्यचित् । (पद्या। २८२)

वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्व् इदं
वासं ब्रूहि शठ प्रकामसुभगे त्वद्गात्रसंसर्गतः ।
यामिन्याम् उषितः क्व धूर्त वितनुर् मुष्णाति किं यामिनी
शौरिर् गोपवधूं छलैः परिहसन्न् एवंविधैः पातु वः ॥२७९॥

कस्यचित् । (पद्या। २८३; भ।र।सि। २।१।८३)

कुशलं राधे सुखितोऽसि कंस कं स क्व नु सा राधा ।
इति पालीप्रतिवचनैर् विलक्षहासो हरिर् जयति ॥२८०॥

कस्यचित् । (स।क।आ। २।३५१)