०५५ हरिक्रीडा

इह निचुलनिकुञ्जे मध्यमध्यास्य रन्तुर्
विजनम् अजनि शय्या कस्य बालप्रवालैः ।
इति निगदति वृन्दे योषितां पान्तु युष्मान्
स्मितशवलितराधामाधवालोकितानि ॥२७१॥

(पद्या। २०१)

कृष्ण त्वद्वनमालया सह कृतं केनापि कुञ्जान्तरे
गोपीकुन्तलबर्हदाम तद् इदं प्राप्तं मया गृह्यताम् ।
इत्थं दुग्धमुखेन गोपशिशुनाख्याने त्रपानम्रयो
राधामाधवयोर् जयन्ति बलितस्मेरालसा दृष्टयः ॥२७२॥

लक्ष्मणसेनदेवस्य । (पद्या। २०२)

भ्रूवल्लीचलनैः कयापि नयनोन्मेषैः कयापि स्मित
ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि ।
गर्वाद् भेदकृतावहेलविनयश्रीभाजि राधानने
सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ॥२७३॥

उमापतिधरस्य । (पद्या। २५९, र्कद् १२९)

व्यालाः सन्ति तमालवल्लिषु वृतं वृन्दावनं वानरैर्
उन्नक्रं यमुनाम्बु घोरवदनव्याघ्रा गिरेः सन्धयः ।
इत्थं गोपकुमारकेषु वदतः कृष्णस्य तृष्णोत्तर
स्मेराभीरवधूनिडेधिनयनस्याकुञ्चनं पातु वः ॥२७४॥

आचार्यगोपीकस्य ।

सङ्केतीकृतकोकिलादिनिनदं कंसद्विषः कुर्वतो
द्वारोन्मोचनलोलशङ्खवलयक्वाणं मुहुः शृण्वतः ।
केयं केयम् इति प्रगल्भजरतीवाक्येन दूनात्मनो
राधाप्राङ्गणकोणकोलिविटपिक्रोडे गता शर्वरी ॥२७५॥

आचार्य गोपीकस्य (पद्या। २०५; बा।रा।क् ५।११५९)