०५१ कृष्णशैशवम्

कृष्णेनाद्य गतेन रन्तुमनसा मृद्भक्षिता स्वेच्छया
सत्यं कृष्ण क एवम् आह मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगन्
माता यस्य जगाम विस्मयपदं पायात् स वः केशव ॥२५१॥

कस्यचित् । (स।क।आ।व् २३, शा।प। ४०१६)

लीलोत्तानशयोऽपि गोपनिवहैर् उद्गीयमानेष्व् अति
प्रौढप्रौढमुरारिविक्रमकथागीतेषु दत्तश्रवाः ।
कस्मिंश्चित् क्षुभितः कुतोऽपि चलितः कुत्रापि रोमाञ्चितः
क्वापि प्रस्फुरितः कुतोऽपि हसितः प्राप्तो हरिः पातु वः ॥२५२॥

महीधरस्य ।

न्यञ्चन्न् उदञ्चन् बहुशः कथञ्चिद्
उदञ्चितो वेफथुमान् हरिर् वः ।
देवोऽसि देवोऽसि सपाणितालं
यशोदयोक्तः प्रहसन् पुनातु ॥२५३॥

कस्यचित् ।

अधरमधुरे कण्ठं कण्ठे सचाटु दृशौ दृशोर्
अलिकम् अलिके कृत्वा गोपीजनेन ससम्भ्रमम् ।
शिशुर् इति रुदन् कृष्णो वक्षःस्थले निहितश् चिरान्
निभृतपुलकः स्मेरः पायात् स्मरालसविग्रहः ॥२५४॥

दिवाकरदत्त्स्य । (पद्या। १३५; बा।रा।क् ५।१७५१)

ब्रूमस् त्वच्चरितं तवाधिजननि च्छद्मातिबाल्याकृते
त्वं यादृग् गिरिकन्दरेषु नयनानन्दः कुरङ्गीदृशाम् ।
इत्य् उक्तः परिलेहनच्छलतया न्यस्ताङ्गुलिः स्वानने
गोपीभिः पुरतः पुनातु जगतीम् उत्तानसुप्तो हरिः ॥२५५॥

वनमालिनः । (पद्या। १३५)