भ्रान्त्वा महीं तत इतस् तुरगाधिरूढो
वेदद्विषो विदलयन् दलिताखिलाशः ।
देवो निवर्तितकलिः कृतमार्गदर्शी
कल्कं स ते हरतु कल्किकुले भविष्यन् ॥२४६॥
कस्यचित् ।
वामनाद् अणुतमाद् अनु जीयास्
त्वं त्रिविक्रम तनूभृतदिक्कः ।
वीतहिंसनपथाद् अथ बुद्धात्
कल्किताहतसमस्त नमस्ते ॥२४७॥
श्रीहर्षस्य । (न्च् २१।९६)
कल्की कल्कं हरतु जगतः स्फूर्जदूर्जस्वितेजा
वेदोच्छेदस्फुरितदुरितध्वंसने धूमकेतुः ।
येनोत्क्षिप्य क्षणम् असिलतां धूमवत् कल्मषेच्छान्
म्लेच्छान् हत्वा दलितकलिनाकारि सत्यावतारः ॥२४८॥
जयदेवस्य ।
आघ्राणश्रवणावलोकनरसास्वादादयश् चुम्बन
श्रद्धा वाग् विषवर्षणं च शिरसो दोषा इमे यैर् जनः ।
मूढो लङ्घितसत्पथोऽयम् इति सङ्क्रुद्धः शठानां हठाद् यः
शीर्षाणि कृपाणपाणिर् अलुनात् तस्मै नमः कल्किने ॥२४९॥
कुलदेवस्य ।
तीर्थानां शतम् अस्ति किन्तु फलति श्रद्धाभरादित्य् असेर्
धारातीर्ह्तम् अपूर्वम् एव कलयन् कल्की शिवायास्तु वः ।
यत् प्राप्याखिलवेदभेदकधियः श्रद्धातिरस्कारिणः
शक्रस्यातिथयो भवन्ति भवएन्ष्व् एनस्विनो जन्तवः ॥२५०॥
कस्यचित् ।