सुरापीतो गोत्रस्खलनपरिवृद्धाधिकरुषः
प्रसादं रेवत्या जनयितुम् अनीशः कथम् अपि ।
विचुम्बन् संश्लिष्यन् स्तनवसनम् अस्यन्न् अविरतं
मधून् मादाविष्टः स किल बलभद्रो विजयते ॥२३६॥
लक्ष्मीधरस्य ।
आघूर्णद्वपुषः स्खलन्मृदुगिरः किञ्चिल्लसद्वाससो
रेवत्यं सनिषण्णनिःसहभुजस्याताम्रनेत्रद्युतेः ।
श्वासामोदमदान्धषट्पदकुलव्यादष्टकण्ठस्रजः
पायासुः परिमन्थराणि हलिनो मत्तस्य यातानि वः ॥२३७॥
कोकस्य ।
भभभ्रमति मेदिनी लललन्दते चन्द्रमाः
कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः ।
सिसीधु मुमुमुञ्च मे पपपपानपात्रे स्थितः
मदस्खलितम् आलपन् हलधरः श्रियः वः क्रियात् ॥२३८॥
पुरुषोत्तमदेवस्य । (सु।र। १२७; बा।रा।स् २।४।३७)
रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ ।
वहन् हली मदक्षीवः पानगोष्ठ्यां पुनातु वः ॥२३९॥
माघभोजदेवयोः । (स।क।आ। २।६१)
भ्रमति धरणीचक्रं चक्रे नभस्तलयन्त्रणात्
प्रभवति न मे गात्रं किञ्चित् क्रियासु विधूर्णते ।
जलधिसलिले मग्नं विश्वं विलोक्य रेवति
त्रिजगद् अवताज् जल्पन्न् एवं हली मदविह्वलः ॥२४०॥
माधवस्य ।