सरसि विरसः प्रस्थे दुःस्थो लतासु गतादरः
प्रति परिसरं भ्रान्तोद्भ्रान्तः सरित्सु निरुत्सुकः ।
ददद् अपि दृशौ कुब्जे कुब्जे रुदन्न् उपनिर्झरं
सुचिरविरहक्षामो रामो न करि अनुरुद्यते ॥२३१॥
वासुदेवज्योतिषः ।
निष्पन्दं गिरिकन्दरेषु विपिनच्छायासु मूर्च्छालसं
सास्रं पञ्चवटीतटीषु तटिनीतीरेषु तीव्रव्यथम् ।
काकुत्स्थं तदवस्थम् आधिविधुरं दृष्ट्वा तडिद्व्याजतो
मन्ये मन्युभरैर् अभेदि हृदयं गाढं घनानाम् अपि ॥२३२॥
वसुरथस्य ।
अनुवनम् अनुशैलं ताम् अनालोक्य सीतां
प्रतिदिनम् अतिदीनं वीक्ष्य रामं विरामम् ।
गिरिर् अशनिमयोऽयं यस् तदा न द्विधाभूत्
क्षितिर् अपि न विदीर्णा सापि सर्वंसहैव ॥२३३॥
शोभाकस्य ।
कोऽहं वत्स स आर्य एव भगवान् आर्यः स को राघवः
के यूयं बत नाथ नाथ किम् इदं भृत्योऽस्मि ते लक्ष्मणः ।
कान्तारे किम् इहास्महे बत वृथा देव्या गतिर् मृग्यते
का देवी जनकाधिराजतनया हा जानकि क्वासि मे ॥२३४॥
कस्यचित् ।
कूजन् कुञ्जे किम् अपि करुणं कन्दरे कान्दिशीकः
सानौ शून्यप्रणिहितमनाः कानने ध्याननेत्रः ।
गच्छन् मूर्च्छां कुसुमशयने वीतरागस् तडागे
जीयाज् जायाविरहविदुषां ग्रामणीः रामभद्रः ॥२३५॥
आचार्यगोपीकस्य ।