०४६ श्रीरामः

शौर्योत्कर्षतृणीकृतत्रिभुवनो लङ्कापतिः सोऽभवत्
कारायाम् उपवासयन् विजयते तं हेलया हैहयः ।
लीलालूनविशालतद्भुजवनोऽभूज् जामदग्न्यस् ततस्
तज्जेता जनकात्मजापरिवृढो रामः कथं वर्ण्यताम् ॥२२६॥

सुरभेः ।

रामः कस्य न विस्मयाय मनसो निःशङ्कलङ्केश्वर
त्रुट्यन्मौलिसिरासमुच्छलदसृग्धारानुबन्धेन यः ।
तद्दोर्विक्रमविद्रुता दशदिशो भोगाय भूमण्डले
सम्यग् वासयितुं प्रवालघटिता यष्टीर् उदस्तम्भयन् ॥२२७॥

दङ्कस्य ।

मार्तण्डैककुलप्रकाण्डतिलकस् त्रैलोक्यरक्षामणिर्
विश्वामित्रमहामुनेर् निरुपधिः शिष्यो रघुग्रामणीः ।
रामस् ताडितताडकः किम् अपरं प्रत्यक्षनारायणः
कौशयानयनोत्सवो विजयते भूकश्यपस्यात्मजः ॥२२८॥

राजशेखरस्य ।

रामो नूनम् अयं निशाचरचमूकालाग्निरुद्रोपमो
निःसन्देहम् अयं च विक्रमनिधिः सौमित्रिर् अस्यानुजः ।
वारं वारम् अपाङ्गभागचलितैर् यद् दृष्टिपातैर् इयं
लङ्काभर्तुर् अनीकिनी पितृपतेः पाशैर् इवावध्यते ॥२२९॥

श्रीमित्रस्य ।

रामोऽसौ भुवनेषु विक्रमगुणैर् यातः प्रसिद्धिं पराम्
अस्मद्भाग्यविपर्ययाद् यदि पुनः देवो न जानाति तम् ।
वन्दीवैष यशांसि गायति मरुद् यस्यैकबाणाहति
श्रीएणीभूतविशालसालविवरोद्गीर्णैः शरैः सप्तभिः ॥२३०॥

विशाखदत्तस्य ।