०४३ वामनः

इदं प्रायो लोके न परिचितपूर्वं नयनयोर्
न याच्ञा यत् पुंसः सुगुणपरिमाणं लघयति ।
विशद्भिर् विश्वात्मा स्ववपुषि बलिप्रार्थनकृते
त्रपालीनैर् अङ्गैर् यद् अयम् अभवद् वामनतनुः ॥२११॥

वङ्कस्य ।

अपसर पृथिवि समुद्राः संवृणुताम्बूनि भूभृतो नमत ।
वामनहरिलघुतुन्दे जगतीकलहः स वः पातु ॥२१२॥

भवानन्दस्य ।

कुतस् त्वम् अणुकः स्वतः स्वम् इति किं न यत् कस्यचित्
किम् इच्छसि पदत्रयं ननु भुवा किम् इत्य् अल्पया ।
द्विजस्य शमिनो मम त्रिभुवनं तद् इत्य् आशयो
हरेर् जयति निह्नुतः प्रकटितश् च वक्रोक्तिभिः ॥२१३॥

वाक्पतेः । (सु।र। ११४)

पूज्यो ब्रह्मविदां त्वम् एव विमलज्ञानैकपात्रं भवान्
मद्भाग्येन गतोऽतिथित्वम् अधुना किं ते त्रिभिर् भूपदैः ।
त्रैलोक्यं भवतं स्वम् इत्य् उपगतो दैत्येश्वरेणादराज्
ज्ञातोऽस्मीति सलज्जनम्रवदनः पायाज् जगद् वामनः ॥२१४॥

वसुसेनस्य ।

लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः ।
बलिर् एष स येनास्य भिक्षापात्रीकृतः करः ॥२१५॥

गणाध्यक्षस्य । (शा।प। २७८)