लक्ष्मीम् उरःपरिसरे वहतः सलीलं
योगासनं च चरतो नृहरेर् जयन्ति ।
एकक्षणोपनतमान्मथभावमुग्ध
स्वात्मावबोधम् असृणानि विलोकितानि ॥२०६॥
कस्यचित् ।
न्यञ्चत्केसरम् उत्तरङ्गपुलकस्रङ्नद्धमर्धस्खलद्
द्वन्द्वालापम् अपास्तगर्जनम् अटद्भ्रूभङ्गम् आर्द्रेक्षणम् ।
स्विद्यत्पाणि विनीतदृप्तिकरजं पायान् नृसिंहाकृतेर्
देवस्य श्रियम् अङ्कसीम्नि दधतो विश्रान्तरौद्रं वपुः ॥२०७॥
वैद्यगदाधरस्य ।
स्वच्छन्दं वैरिवक्षःस्थलकुलिशभिदो वीक्ष्य कन्दर्पचाप
क्रीडाभाजो नखाग्रान् समसमयभयानन्दलोलायताक्ष्याः ।
लक्ष्म्या वक्षोजकुम्भं करिकलभशिरःशङ्कया वीक्ष्यमाणः
स्वैरं शान्ताक्षिरागो जयति नरहरिर् जातचित्तानुरागः ॥२०८॥
जलचन्द्रस्य ।
अव्याद् वो वज्रसारस्फुरदुरुनखरक्रूरचक्रक्रमाग्र
प्रोद्भिन्नेन्द्रारिवक्षःस्थलगलदसृगासारकाश्मीरगौरः ।
प्रस्फूर्जत्केशराग्रग्रथितजलधरश्रेणिनीलाब्जमाल्यः
सूर्याचन्द्रावतंसो नरहरिर् असमाबद्धशृङ्गारलीलः ॥२०९॥
प्रजापतेः ।
आनन्दमुग्धनयनां श्रियम् अङ्कभित्तौ
बिभ्रत् पुनातु भवतो भगवान् नृसिंहः ।
यस्यावलोकनविलासवशाद् इवासीद्
उत्सन्नलाञ्छनमृगः कमलामुखेन्दुः ॥२१०॥
उमापतिधरस्य ।