दंष्ट्रासङ्कटवक्त्रघर्घरललज्जिह्वाभृतो हव्यभुग्
ज्वालाभास्वरभूरिकेशरसटाभारस्य दैत्यद्रुहः ।
व्यावल्गद् बलवद् धिरण्यकशिपुक्रोडस्थलीपाटन
स्पष्टप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः ॥२०१॥
दक्षस्य । (सु।र। १४१)
ये बालेन्दुकलार्धविभ्रमभृतो मायानृसिंहाकृतेर्
निर्याता इव ये सिरासरणिभिर् नाभ्यब्जकन्दाङ्कुराः ।
ते वक्षःस्थलदारितासुरसरित्कीलालधारारुणाः
पायासुर् नवकिंशुकाम्रमुकुलश्रीसाक्षिणः पाणिजाः ॥२०२॥
वराहस्य ।
अस्रस्रोतस् तरङ्गभ्रमिषु तरलिता मांसपङ्क्ते लुठन्तः
स्थूलास्थिभङ्गैर् धवलविसलताग्रासम् आकल्पयन्तः ।
मायासिंहस्य शौरेः स्फुरदरुणहृदम्भोजसंश्लेषभाजः
पायासुर् दैत्यवक्षःस्थलकुहरसरोराजहंसा नखा वः ॥२०३॥
मयूरस्य ।
पुनन्तु भुवनत्रयं दलितदैत्यवक्षःस्थल
प्रसर्पिरुधिरच्छटाच्छुरणबालसूर्यत्विषः ।
दृढास्थिचयचूर्णनाघटितशब्दसारा हरेर्
नृसिंहवपुषश् चिरं पिशितपिण्डगर्भा नखाः ॥२०४॥
धूर्जटिराजस्य ।
जयन्ति निर्दारितदैत्यवक्षसो
नृसिंहरूपस्य हरेर् नखाङ्कुराः ।
विचिन्त्य येषां चरितं सुरारयः
प्रियानखेभ्योऽपि रतेषु बिभ्यति ॥२०५॥
कस्यचित् (सु।र। १३०)