सोमार्धायितनिष्पिधानदशनः सन्ध्यायितान्तर्मुखो
बालार्कायितलोचनः सुरधनुर् लेखायितभ्रूलतः ।
अन्तर्नादगभीरपल्वलगलत्वग्रूपनिर्यत्तडित्
तारस्फारसटावरुद्धगगनः पायान् नृसिंहो जगत् ॥१९६॥
मुरारेः ।
चटच्चटिनि चर्मणि च्छम् इति चोच्छलच्छोणिते
धगद्धग् इति मेदसि स्फुटतरोऽस्थिषु ष्ठाद् इति ।
पुनातु भवतो हरेर् अमरवैरिनाथोरसि
क्वणत्करजपञ्जरक्रकचकाषजन्मा रवः ॥१९७॥
वाक्पतिराजस्य । (सु।र। ११६, शा।प। १२६, सू।मु। २।७७)
प्रेङ्खद्भास्वरकेशरौघरचितत्रैलोक्यसन्ध्यातपो
ब्रह्माण्डोदररोधिघर्घरसघूत्कारप्रचण्डध्वनिः ।
स्फूर्जद्वज्रकठोरनखरक्षुण्णासुरोरःस्थली
रक्तास्वादविदीर्णदीर्घरसनः पायान् नृसिंहो जगत् ॥१९८॥
तस्यैव ।
चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापय
भो भो नन्दक जीव पन्नगरिपो किं नाथ भिन्नो मया ।
को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपे
केनास्त्रेण नखैर् इति प्रवदतः शौरेर् गिरः पान्तु वः ॥१९९॥
केशटस्य ।
किं किं सिंहस् ततः किं नरसदृशवपुर् देव चित्रं गृहीतो
नैवं धिक् कोऽत्र जीव द्रुतम् उपनय तं सोऽपि सम्प्राप्त एव ।
चापं चापं न खड्गं झटिति हहहहा कर्कशत्वं नखानाम्
इत्य् एवं दैत्यराजं निजनखकुलिशैर् जघ्निवान् सोऽवताद् वः ॥२००॥
श्रीव्यासपादानाम् । (सु।र। १२८, सू।मु। २।७६)