०३६ गङ्गाप्रशंसा

धर्मस्योत्सववैजयन्तिमुकुटस्रग्वेणिगौरीपतेस्
त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये ।
त्वत्तोयान्तशिलानिषण्णवपुषस् त्वद्वीचिभिः प्रेङ्खतस्
त्वन्नाम स्मरतस् तदर्पितदृशः प्राणाः प्रयास्यन्ति मे ॥१७६॥

लक्ष्मीधरस्य । (सु।र। १६१३, स।क।आ। ४।१८३)

शत्रौ मे सुहृदीव काप्य् उपकृतिर् भूयाद् असूया न तु
स्वाच्छ्यं सत्सु मतिर् जनेषु करुणा हीना न दीनात्मसु ।
प्रक्षीणा कलिकल्मषक्षयकरी तृष्णा न कृष्णार्चने
देवि श्रद्दधतां गतिस् त्वयि मुदा मन्दा न मन्दाकिनि ॥१७७॥

तस्यैव ।

प्रसीद श्रीगङ्गे मृडमुकुटचूडाग्रसुभगे
तवोल्लोलोन्मूलः स्खलतु मम संसारविटपी ।
अथोत्पत्स्ये भूयस् त्रिजगद् अधिराजोऽपि न तदा
श्वपाकः काको वा भगवति भवेयं तव तटे ॥१७८॥

पादुकस्य ।

कदा ते सानन्दं विततनवदूर्वाञ्चिततटी
कुटीरे तीरे वा सवनम् अनु मन्वादिकथितैः ।
कथाबन्धैर् अन्धङ्करणकरणग्रामनियमाद्
यमाद् उज्झन् भीतिं भगवति भवेयं प्रमुदितः ॥१७९॥

गोपीचन्द्रस्य ।

बद्धाञ्जलिर् नौमि कुरु प्रसादम्
अपूर्वमाता भव देवि गङ्गे ।
अन्ते वयस्य् अङ्गगताय मह्यम्
अदेहबन्धाय पयः प्रयच्छ ॥१८०॥

केवट्टपपीपस्य ।