स्थूलो दूरमयं न यास्यति कृशो नैष प्रयाणक्षमस्
तेनैकस्य ममैव तत्र कशिपुप्राप्तिः परं दृश्यते ।
इत्य् आदौ परिचिन्तितं प्रतिमुहुस् तद्भृङ्गिकूष्माण्डयोर्
अन्योन्यप्रतिकूलम् ईशशिवयोः पाणिग्रहे पातु वः ॥१५६॥
कस्यचित् । (सु।र। ९९)
चर्चायाः कथम् एव रक्षति सदा सद्यो नृमुण्डस्रजं
चण्डीकेशरिणो वृषं च भुजगान् सूनोर् मयूराद् अपि ।
इत्य् अन्तःपरिभावयन् भगवतो दीर्घं धियः कौशलं
कूष्माण्डो धृतिसम्भृताम् अनुदिनं पुष्णाति तुन्दश्रियम् ॥१५७॥
कस्यचित् । (सु।र। ९७)
देवी सूनुम् असूत नृत्यत गणाः किं तिष्ठतेत्य् उद्भुजे
हर्षाद् भृङ्गरिटावयाचितगिरा चामुण्डयालिङ्गिते ।
अव्याद् वो हतदुन्दुभिस्वनघनध्वानातिरिक्तस् तयोर्
अन्योन्यप्रचलास्थित्पञ्जररणत्कङ्कालजन्मा रवः ॥१५८॥
योगेश्वरस्य । (सु।र। ७१, सू।मु। २।५५)
शृङ्गं भृङ्गिन् विमुञ्च त्यज गजवदन त्वं च लाङ्गूलमूलं
मन्दानन्दोऽसि नन्दिन्न् अलम् अबल महाकाल कण्ठग्रहेण ।
इत्य् उक्त्वा नीयमानः सुखयतु वृषभः पार्वतीपादमूले
पश्यन्न् अक्षैर् विलक्षं वलितगलचलत्कम्बलं त्र्यम्बकं वः ॥१५९॥
अभिनन्दस्य । (सु।र। ७७)
दिग्वासा वृषवाहनो नरशिरोधारी दधानोऽजिनं
भिक्षुर् भस्मभुजङ्गभूषिततनुर् भूतैर् भ्रमन् काननम् ।
स्मर्त्ट्णां शिवकृत् तथापि जगति ज्येष्ठोऽस्मदीयः प्रभुर्
धन्योऽस्मीत्य् अतितोषपुष्टजठरः कूष्माण्डकोऽव्याज् जगत् ॥१६०॥
महानिधेः ।