०३० कार्त्तिकेयः

स्वेच्छारम्यं लुठित्वा पितुर् उरसि चिरं भस्मधूलीचिताङ्गो
गङ्गावारिण्य् अगाधे झटिति हरजटाजूटतो दत्तझम्पः ।
सद्यः सीत्कारकारी जलजडिमरणहन्तपङ्क्तिर् गुहो वः
कम्पी पायाद् अपायाज् ज्वलितशिखिशिखे चक्षुषि न्यस्तहस्तः ॥१४६॥

बाणस्य । (सु।र। ९१, सू।मु। २।४३)

अर्चिष्मन्ति विदार्य वक्त्रकुहराण्य् आसृक्कतो वासुकेस्
तर्जन्या विषकर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् ।
एकं त्रीणि नवाष्ट सप्त षडतिव्यस्तास्तसङ्ख्याक्रमा
वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलम् ॥१४७॥

कस्यचित् । (सु।र। ९५, शा।प। १०५)

सुप्तं पक्षपुटे निलीनशिरसं सृष्ट्वा मयूरं पुरः
कृत्तं केन शिरोऽस्य तात कथम् इत्य् आक्रन्दतः शैशवात् ।
अन्तर्हासपिनाकिपाणियुगलस्फालोल्लसच्चेतसस्
तन्मूर्धेक्षणहर्षितस्य हसितं पायात् कुमारस्य वः ॥१४८॥

कस्यचित् । (सु।र। ९६)

हंसश्रेणिकुतूहलेन कलयन् भूषाकपालावलीं
बालाम् इन्दुकलां मृणालरभसाद् आन्दोलयन् पाणिना ।
रक्ताम्भोजधिया च लोचनपुटं लालाटम् उद्घाटयन्
पायाद् वः पितुर् अङ्कभाक् शिशुजनक्रीडोन्मुखः षण्मुखः ॥१४९॥

बलभद्रस्य । (सु।र। ९२)

नालैर् नीलोत्पलानां रचितगुरुजटाजूटविन्यासशोभः
कृत्वा सम्भुग्नकोटिद्वयम् अथ विसिनीकन्दम् इन्दोः प्रदेशे ।
मातुश् चित्रांशुकेन त्वचम् उचितपदे पौण्डरीकीं विधाय
क्रीडारुद्रायमाणो जगद् अवतु गुहो वीक्ष्यमाणः पितृभ्याम् ॥१५०॥

हलायुधस्य ।