०२९ गणेशः

एकः स एव परिपालयताज् जगन्ति
गौरीगिरीशचरितानुकृतिं दधानः ।
आभाति यो दशनशून्यमुखैकदेश
देहार्धहारितवधूक इवकदन्तः ॥१४१॥

वसुकल्पस्य । (सु।र। ९४)

कपोलाद् उड्डीनैर् भयवशविलोलैर् मधुकरैर्
मदाम्भःसंलोभाद् उपरि पतितुं बद्धपटलैः ।
चलद्बर्हच्छत्रश्रियम् इव दधानोऽतिरुचिराम्
अविघ्नं हेरम्बो जगदघविघ्âतं घटयतु ॥१४२॥

तस्यैव । (सु।र। ९३)

सन्ध्यासिन्दूररागारुणगगनतलासङ्गिगङ्गोत्तमाङ्ग
त्वङ्गन्नक्षत्रमालाकृतरुचिररुचिः कर्णशङ्खीकृतेन्दुः ।
निस्तोयआम्भोदवृन्दैः श्रुतियुगलचलच्चामराडम्बरश्रीर्
अव्याजालङ्कृतिर् वः प्रवितरतु गणग्रामणीर् मङ्गलानि ॥१४३॥

दङ्कस्य ।

गर्जद्गभीरघनघर्घरघोरघोष
दिग्दन्तिभीतिजननोद्गतकण्ठनादः ।
धुन्वन् मुखं तव निरस्यतु सर्वविघ्नं
लम्बोदरः सहजनाठ्यरसप्रवृत्तः ॥१४४॥

पापाकस्य ।

देवेन्द्रमौलिमन्दारमकरन्दकणारुणाः ।
विघ्नं हरन्तु हेरम्बचरणाम्बुजरेणवः ॥१४५॥

उमापतिधरस्य ॥