अर्धं दन्तच्छदस्य स्फुरति जपवशाद् अर्धम् अप्य् उत्प्रकोपाद्
एकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुम् अन्यस् तम् एव ।
एकं ध्यानान् निमीलत्य् अपरम् अविकसद् वीक्षते नेत्रम् इत्थं
तुल्यान् इच्छाविधित्सा तनुर् अवतु स वो यस्य सन्ध्याविधाने ॥१३६॥
कस्यचित् ।
अच्छिन्नमेखलम् अलब्धदृढोपगूढम्
अप्राप्तचुम्बनम् अवीक्षितवक्त्रकान्ति ।
कान्ताविमिश्रवपुषः कृतविप्रलम्भ
सम्भोगसख्यम् इव पातु वपुः स्मरारेः ॥१३७॥
छित्तिपस्य ।
प्रौढप्रेमरसाद् अभेदघटिताम् अङ्गे दधानः प्रियां
देवः पातु जगन्ति केलिकलहे तस्याः प्रसादाय यः ।
व्याहर्तुं प्रणयोचितं नमयितुं मूर्धानम् अप्य् अक्षमो
धत्ते केवलम् एव वामचरणाम्भोजे करं दक्षिणम् ॥१३८॥
गदाधरस्य ।
मिश्रीभूतां तव तनुलतां बिभ्रतो गौरि कामं
देवस्य स्याद् अविरलपरीरम्भजन्मा प्रमोदः ।
किन्तु प्रेमस्तिमितमधुरस्निग्धमुग्धा न दृष्टिर्
दृष्टेत्य् अन्तःकरणम् असकृत् ताम्यति त्र्यम्बकस्य ॥१३९॥
भगीरथस्य । (सु।र। ८२)
अन्यस्यै सम्प्रतीयं कुरु मदनरिपो स्वाङ्गदानप्रसादं
नाहं सोढुं समर्था शिरसि सुरनदीं नापि सन्ध्यां प्रणन्तुम् ।
इत्य् उक्त्वा कोपबिद्धां विघटयितुम् उमाम् आत्मदेहं प्रवृत्तां
रुन्धानः पातु शम्भोः कुचकलसहठस्पर्शकृष्टो भुजो वः ॥१४०॥
मयूरस्य ।