यद्वक्त्राकाशशेषो नभसि न सुलभो यद्भुजानां सहस्रैः
प्रेङ्खद्भिः कीर्यमाणास्वनुर् अपि विदितो नावकाशो दिशासु ।
पञ्च ग्रासा न यस्यास् त्रिभुवनम् अभवत् पूरणार्थंअ समस्तं
क्ष्ण्ड्त्क्षामाकाण्डचण्डी चिरम् अवतुतरां भैरवी कालरात्रिः ॥१२६॥
भासोकस्य ।
शिखण्डे खण्डेन्दुः शशिदिनकरौ कर्णयुगले
गले ताराहारस्तरलम् उडुचक्रं च कुचयोः ।
तडित्काञ्ची सन्ध्यासिचयरचिता कालि तद् अयं
तवाकल्पः कल्पव्युपरमविधेयो विजयते ॥१२७॥
कस्यचित् ।
निर्मांसप्रकटास्थिजालविकटां पातालनिम्नोदरीं
कूपक्रोडगभीरनेत्रकुहराम् उन्नद्धजूटाटवीम् ।
दन्तान्तर्गतदैत्यकीकसकणव्याकर्षणव्यापृत
क्रूरैकाग्रनखाम् अखण्डितरुचं त्वां चण्डि वन्दामहे ॥१२८॥
कस्यचित् ।
तारान्तर्ज्वलदग्निलक्षनयनश्वभ्रान्तकृपान्तरां
क्रुद्दागस्त्यनिरस्तवारिधिपयःपातालनिम्नोदरीम् ।
वन्दे त्वाम् अजितावृतोत्कटसिरापृष्ठास्थिसाराकृतिं
दंष्ट्राकोटितटोत्पतिष्णुदितिजासृक्चर्चितां चर्चिकाम् ॥१२९॥
उमापतिधरस्य ।
जयति तव कूणितेक्षणम् अश्नत्या दशनपेषम् असुरास्थि ।
कल्पशिखिस्फुटदद्रिक्वाणकरालः कडत्कारः ॥१३०॥
शतानन्दस्य ।