स्वेदस् ते कथम् ईदृशः प्रियतमे त्वन्नेत्रवह्नेर् विभो
कस्मात् कम्पितम् एतद् इन्दुवदने भोगीन्द्रभीतेर् भव ।
रोमाञ्चः कथम् एष देवि भगवन् गङ्गाम्भसां शीकर
इत्थं भर्तरि भावगोपनपरा गौरी चिरं पातु वः ॥११६॥
लक्ष्मीधरस्य । (सु।र। ७५, शा।प। १०४)
शम्भो सत्यम् इदं पयोधिमथने लक्ष्म्या वृते केशवे
वैलक्ष्यात् किल काककूटम् अशितं पीतं विषं यत् त्वया ।
सत्यं पार्वति नास्ति नः सुभगता साक्षी तथा च स्मरो
देवेनेति कृतस्मृतिः स्मितमुखी गौरी चिरं पातु वः ॥११७॥
श्रीहर्षदेवस्य ।
चर्मालम्बिदुकूलवल्लरिचिताभस्मावधूतस्तनो
न्मीलच्चन्दनम् उत्तरीयभुजगव्यासक्तमुक्तावलि ।
मुग्धाया अपि शैलराजदुहितुर् गङ्गाधारालिङ्गनं
गाढप्रेमरसानुबन्धनिकषग्रावा शिवायास् तु वः ॥११८॥
जलचन्द्रस्य ।
शिरसि कुटिला सिन्धुर् दोषाकरस् तव भूषणं
सह विषधरैः प्रत्यासन्ना पिशाचपरम्परा ।
हरसि न हर प्राणान् एव न वेद कथं न्व् इति
प्रणयकुपितक्ष्माभृत्पुत्रीवचांसि पुनन्तु वः ॥११९॥
भगवद्गोविन्दस्य ।
नादत्ते फणिकङ्कणप्रणयिनं नीईवीनिवेशे करं
नो चूणैर् उपहन्ति भालनयनज्योतिर्मयीं दीपिकाम् ।
धत्ते चर्म हरेण मुक्तम् अपि न द्वैपं भयाद् इत्य् असौ
पायाद् वो नवमोहनव्यतिकरव्रीडावती पार्वती ॥१२०॥
आचार्यगोपीकस्य ।