०२३ विवाहसमयगौरी

गोनासाय वियोजितागदरजाः सर्पाय बद्धौषधिः
कण्ठस्थाय विषाय वीर्यमहतः पाणौ मणीन् बिभ्रती ।
भर्तुर् भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा
रक्षत्व् अद्रिसुता विवाहसमये प्रीता च भीता च वः ॥१११॥

राजशेखरस्य । (वि।शा।भ। १।३, सु।र। १०२, सू।मु। २।३६)

प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनव्यस्तया
दृष्ट्वाग्रे परिणेतुर् एव लिखितां गङ्गाधरस्याकृतिम् ।
उन्मादस्मितरोषलज्जितरसैर् गौर्या कथञ्चिच् चिराद्
वृद्धस्त्रीवचनात् प्रिये विनिहितः पुष्पाञ्जलिः पातु वः ॥११२॥

भासस्य । (सु।र। ८८, शा।प। १०२, सू।मु। २।३७)

ब्रह्मायं विष्णुर् एष त्रिदशपतिर् असौ लोकपालास् तथैते
जामाता कोऽत्र योऽसौ भुजगपरिवृतो भस्मरूक्षः कपाली ।
हा वत्से वञ्चितासीत्य् अनभिमतवरप्रार्थनाव्रीडिताभिर्
देवीभिः शोच्यमानाप्य् उपचितपुलका श्रेयसे वोऽस्तु गौरी ॥११३॥

कस्यचित् ।

धूमव्याकुलदृष्टिर् इन्दुकिरणैर् आह्लादिताक्षी पुनः
पश्यन्ती वरम् उत्सुका नतमुखी भूयो ह्रिया ब्रह्मणः ।
सेर्ष्या पादनखाच्छदर्पणगतां गङ्गां दधाने हरे
स्पर्शाद् उत्पुलका करग्रहविधौ गौरी शिवायास्तु वः ॥११४॥

श्रीहर्षदेवस्य । (प्रियदर्शिका १।१)

पादाग्रे स्थितया मुहुः स्तनभरेणानीतया नम्रतां
शम्भोः सस्प्रृहलोचनत्रयपथं यान्त्या तदाराधने ।
ह्रीमत्या शिरसीहितः सपुलकस्वेदोद्गमोत्कम्पया
विश्लिष्यन् कुसुमाञ्जलिर् गिरिजया क्षिप्तोऽन्तरे पातु वः ॥११५॥

तस्यैव । (रत्नावलि १, सू।मु। २।३८)